|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.268. अध्यायः 268
Mahabharata - Vana Parva - Chapter Topics
कोटिकाश्याद्द्रौपदीतत्वंविदितवता जयद्रथेन द्रौपदीमेत्य स्वभार्यात्वयाचनाः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-268-0x(2656)(26181)
तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत।
`कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम् ॥ 3-268-1(26182)
यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत्।
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥ 3-268-2(26183)
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः।
सीमन्तिनीनां सुख्यायां विनिवृत्तः कथं भवान् ॥ 3-268-3(26184)
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः।
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥ 3-268-4(26185)
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्।
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥ 3-268-5(26186)
कोटिक उवाच। 3-268-6x(2657)
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी।
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥ 3-268-6(26187)
सर्वेषां चैव पार्थानां प्रिया बहुमता सती।
तया समेत्य सौवीर सौवीराभिमुखो व्रज ॥ 3-268-7(26188)
वैशम्पायन उवाच। 3-268-8x(2658)
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति।
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥ 3-268-8(26189)
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा।
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥ 3-268-9(26190)
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः।
येषां कुशलकामासि तेऽपिकच्चिदनामयाः ॥ 3-268-10(26191)
द्रौपद्युवाच। 3-268-11x(2659)
अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा।
कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः।
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया ॥ 3-268-11(26192)
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः।
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥ 3-268-12(26193)
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज।
मृगान्विता मृगीश्चैव प्रातराशं ददानि ते ॥ 3-268-13(26194)
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान्।
ऋक्षाव्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥ 3-268-14(26195)
वराहामहिषांश्चैव याश्चान्या मृगजातयः।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ॥ 3-268-15(26196)
जयद्रथ उवाच। 3-268-16x(2660)
कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया।
एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥ 3-268-16(26197)
गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः।
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥ 3-268-17(26198)
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते।
युञ्जानमनुयुञ्जीत न शरियः संक्षये वसेत् ॥ 3-268-18(26199)
श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः।
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥ 3-268-19(26200)
भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि।
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह ॥ 3-268-20(26201)
वैशम्पायन उवाच। 3-268-21x(2661)
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्।
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥ 3-268-21(26202)
अवमत्यास्य तद्वांक्यमाक्षिप्य च सुमध्यमा।
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥ 3-268-22(26203)
सा काङ्क्षमाणा भर्तृणामुपयातमनिन्दिता।
विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती ॥ 3-268-23(26204)
द्रैपद्युवाच। 3-268-23x(2662)
नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे।
पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी ॥ 3-268-24(26205)
दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह।
मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ ॥ 3-268-25(26206)
धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे।
इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत् ॥ 3-268-26(26207)
राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि।
साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः ॥ 3-268-27(26208)
स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च।
सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः' ॥ 3-268-28(26209)
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ 268 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-268-3 सौवीरको जयद्रथः ॥ 3-268-7 यदास्यां मे मनोरमते तदा भवान्कथं विनिवृत्त इति योज्यम् ॥ 3-268-9 सिंहगोष्ठं गोष्ठमिव गोष्ठं स्थानम् ॥ 3-268-11 अनुतिष्ठति पालयसि। विदिता लब्धाः ॥ 3-268-18 श्रियः संक्षये सतीति शेषः। हीनलक्ष्मीके इत्यर्थः ॥ 3-268-19 समाः संवत्सरान् ॥ 3-268-23 विलोभयामास परमिति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|